|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.354. अध्यायः 354
Mahabharata - Shanti Parva - Chapter Topics
नरनारायणाभ्यां नारदाय श्रीभगवन्महिमानुवर्णनम्॥ 1॥ वदर्थाश्रमे नरादेन चिरतरं तपश्चर्या॥ 2॥

Mahabharata - Shanti Parva - Chapter Text
नरनारायणावूचतुः। 12-354-0x(6621)(80171)
धन्योस्यनुगृहीतोसि यत्ते दृष्टः स्वयंप्रभुः।
न हि तं दृष्टवान्कश्चित्पद्मयोनिरपि स्वयम्॥ 12-354-1(80172)
अव्यक्तयोनिर्भगवान्दुर्दर्शः पुरुषोत्तमः।
नारदैतद्धि नौ सत्यं वचनं समुदाहृतम्॥ 12-354-2(80173)
नास्य भक्तात्प्रियतरो लोके कश्चन विद्यते।
ततः स्वयं दर्शितवान्स्वमात्मानं द्विजोत्तम॥ 12-354-3(80174)
तपो हि तप्यतस्तस्य यत्स्थानं परमात्मनः।
न तत्संप्राप्नुते कश्चिदृते ह्यावां द्वितोत्तम॥ 12-354-4(80175)
या हि सूर्यसहस्रस्य समस्तस्य भवेद्द्युतिः।
स्थानस्य सा भवेत्तस्य स्वयं तेन विराजता॥ 12-354-5(80176)
तस्मादुत्तिष्ठते विप्र देवाद्विश्वभुवः पतेः।
क्षमा क्षमावतां श्रेष्ठ यया भूमिस्तु युज्यते॥ 12-354-6(80177)
तस्माच्चोत्तिष्ठते देवात्सर्वभूतहिताद्रसः।
आपो हि तेन युज्यन्ते द्रवत्वं प्राप्नुवन्ति च॥ 12-354-7(80178)
तस्मादेव समुद्भूतं तेजो रूपगुणात्मकम्।
येन संयुज्यते सूर्यस्ततो लोके विराजते॥ 12-354-8(80179)
तस्माद्देवात्समुद्भूतः स्पर्शस्तु पुरुषोत्तमात्।
येन स्म युज्यते वायुस्ततो लोकान्विवात्यसौ॥ 12-354-9(80180)
तस्माच्चोत्तिष्ठते शब्दः सर्वलोकेश्वरात्प्रभोः।
आकाशं युज्यते येन ततस्तिष्ठत्यसंवृतम्॥ 12-354-10(80181)
तस्माच्चोत्तिष्ठते देवात्सर्वभूतगतं मनः।
चन्द्रमा येन संयुक्तः प्रकाशगुणधारणः॥ 12-354-11(80182)
सद्भूतोत्पादकं नाम तत्स्थानं वेदसंज्ञितम्।
विद्यासहायो यत्रास्ते भगवान्हव्यकव्यभुक्॥ 12-354-12(80183)
ये हि निष्कल्मषा लोके पुण्यपापविवर्जिताः।
तेषां वै क्षेममध्वानं गच्छतां द्विजसत्तम॥ 12-354-13(80184)
सर्वलोके तमोहन्ता आदित्यो द्वारमुच्यते।
` ज्वालामाली महातेजा येनेदं धार्यते जगत्॥' 12-354-14(80185)
आदित्यदग्धसर्वाङ्गा अदृश्याः केनचित्क्वचित्।
परमाणुभूता भूत्वा तु तं देवं प्रविशन्त्युत॥ 12-354-15(80186)
तस्मादपि च निर्मुक्ता अनिरुद्धतनौ स्थिताः।
मनोभूतास्ततो भूत्वा प्रद्युम्नं प्रविशन्त्युत॥ 12-354-16(80187)
प्रद्युम्नाच्चापि निर्मुक्ता जीवं संकर्षणं ततः।
विशन्ति विप्रप्रवराः साङ्ख्या भागवतैः सह॥ 12-354-17(80188)
ततस्त्रैगुण्यहीनास्ते परमात्मानमञ्जसा।
प्रविशन्ति द्विजश्रेष्ठाः क्षेत्रज्ञं निर्गुणात्मकम्।
सर्वावासं वासुदेवं क्षेत्रज्ञं विद्धि तत्त्वतः॥ 12-354-18(80189)
समाहितमनस्काश्च नियताः संयतेन्द्रियाः।
एकान्तभावोपगता वासुदेवं विशन्ति ते॥ 12-354-19(80190)
आवामपि च धर्मस्य गुहे जातौ द्विजोत्तम।
रम्यां विशालामाश्रित्य तप उग्रं समास्थितौ॥ 12-354-20(80191)
ये तु तस्यैव देवस्य प्रादुर्भावाः सुरप्रियाः।
भविष्यन्ति त्रिलोकस्थास्तेषां स्वस्तीत्यथो द्विज॥ 12-354-21(80192)
विधिना स्वेन युक्ताभ्यां यथापूर्वं द्विजोत्तम।
आस्थिताभ्यां सर्वकृच्छ्रं व्रतं सम्यगनुत्तमम्॥ 12-354-22(80193)
`स्वार्थेन विधिना युक्तः सर्वकृच्छ्रव्रते स्थितः।'
आवाभ्यामपि दृष्टस्त्वं श्वेतद्वीपे तपोधन॥ 12-354-23(80194)
समागतो भगवता संकल्पं कृतवांस्तथा।
सर्वं हि नौ संविदितं त्रैलोक्ये सचराचरे॥ 12-354-24(80195)
यद्भविष्यति वृत्तं वा वर्तते वा शुभाशुभम्।
सर्वं स ते कथितवान्देवदेवो महामुने॥ 12-354-25(80196)
वैशम्पायन उवाच। 12-354-26x(6622)
एतच्छ्रुत्वा तयोर्वाक्यं तपस्युग्रे च वर्ततोः।
नारदः प्राञ्जलिर्भूत्वा नारायणपरायणः॥ 12-354-26(80197)
जजाप विधिवन्मन्त्रान्नारायणगतान्बहून्।
दिव्यं वर्षसहस्रं हि नरनारायणाश्रमे॥ 12-354-27(80198)
अवसत्स महातेजा नारदो भगवानृषिः।
तावेवाभ्यर्चयन्देवौ नरनारायणौ च तौ॥ ॥ 12-354-28(80199)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये चतुःपञ्चादशधिकत्रिशततमोऽध्यायः॥ 354॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-354-2 आकाशयोनिर्भगवानिति ध. पाठः॥ 12-354-7 सर्वभूतहितोरस इति थ. पाठः॥ 12-354-15 परमाण्वात्मभूतास्तु तं देशं प्रतिसन्त्युतेति थ. पाठः॥ 12-354-17 विप्रप्रवरास्तेषां शुद्धा गतिर्हिसेति ध. पाठः॥ 12-354-20 विशालां बदरीम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|